|
|
|
Sri Dattatreya Panjara Stotram – श्री दत्तात्रेय पञ्जर स्तोत्रम्
अस्य श्रीदत्तात्रेय पञ्जर महामन्त्रस्य शबररूप महारुद्र ऋषिः, अनुष्टुप्छन्दः, श्रीदत्तात्रेयो देवता, आं बीजं, ह्रीं शक्तिः, क्रों कीलकं, श्रीदत्तात्रेय प्रसादसिद्ध्यर्थे जपे विनियोगः । द्रामित्यादि न्यासः कुर्यात् ॥
ध्यानम् –
व्याख्यामुद्रां करसरसिजे दक्षिणेसन्दधानो
जानुन्यस्तापरकरसरोजात्तवेत्रोन्नतांसः ।
ध्यानात् सुखपरवशादर्धमामीलिताक्षो
दत्तात्रेयो भसित धवलः पातु नः कृत्तिवासाः ॥
अथ मन्त्रः –
ओं नमो भगवते दत्तात्रेयाय, महागम्भीराय, वैकुण्ठवासाय, शङ्ख चक्र गदा त्रिशूलधारिणे, वेणुनादाय, दुष्टसंहारकाय, शिष्टपरिपालकाय, नारायणास्त्रधारिणे, चिद्रूपाय, प्रज्ञानब्रह्ममहावाक्याय, सकलकर्मनिर्मिताय, सच्चिदानन्दाय, सकललोकसञ्चारणाय, सकलदेवतावशीकरणाय, सकललोकवशीकरणाय, सकलभोगवशीकरणाय, लक्ष्मीऐश्वर्यसम्पत्कराय, महामातृ पितृ पुत्रादि रक्षणाय, गुडोदक कलशपूजाय, अष्टदलपद्मपीठाय, बिन्दुमध्ये लक्ष्मीनिवासाय, ओं ओं ओं ओं ओं ओं ओं ओं अष्टदलबन्धनाय, ह्रीं ह्रीं ह्रीं ह्रीं चतुष्कोणबन्धनाय, ह्रां ह्रां ह्रां ह्रां चतुर्द्वारबन्धनाय, ऋग्यजुःसामाथर्वण प्रणव समेताय, उदात्तानुदात्तस्वरित प्रवचनाय, गायत्री सावित्री सरस्वती देवताय, अवधूताश्रमाय, आजपा गायत्री समेताय, सकलसम्पत्कराय, परमन्त्र परतन्त्र परतन्त्रोच्चाटनाय, आत्ममन्त्र आत्मयन्त्र आत्मतन्त्र संरक्षणाय, सदोचित सकलमत स्थापिताय, सद्गुरु दत्तात्रेयाय हुं फट् स्वाहा ।
इति श्री दत्तात्रेय पञ्जर स्तोत्रम् ।

|


|